श्री गानमूर्ति शर्मा
Oct 5th 2022
वयं प्रतिक्षणम् अस्मान् परितः विद्यमानानां पदार्थानां ज्ञानं प्राप्नुमः। ते सर्वे अपि पदार्थाः सर्वदा न दृश्यन्ते ।किन्तु अदृष्टस्य अपि वस्तुनः अथवा अमूर्तस्य अपि पदार्थस्य ज्ञानं भवति इति अस्माकम् अनुभवः । तर्हि पदार्थानां ज्ञानं प्राप्तुं के के उपायाः सन्ति इति न्यायशास्त्रं विस्तरेण विवृणोति ।
तत्र आदौ वयं ज्ञानानां प्रकारान् पश्यामः । अनुभवः स्मरणं चेति ज्ञानं द्विविधम् । तत्र अनुभवात्मकं ज्ञानम् अपि यथार्थज्ञानम् अयथार्थज्ञानं चेति द्विविधं भवति । तद्वति तत्प्रकारकं ज्ञानम् एव यथार्थज्ञानम् इति उच्यते । अर्थात् कुत्रचित् विद्यमानस्य एव वस्तुनः ज्ञानं तत्र भवति चेत् तत् यथार्थज्ञानम् । तथाहि कश्चित् रजतं दृष्ट्वा “इदं रजतम्” इति ज्ञानं प्राप्नोति । तत्र रजते वस्तुतः रजतत्वं वर्तते । अतः रजते विद्यमानस्य एव रजतत्वस्य ज्ञानं तत्र जातम् इत्यतः इदं यथार्थज्ञानं भवति । एतदेव ज्ञानं प्रमा इत्यपि उच्यते । तदभाववति तत्प्रकारकं ज्ञानम् एव अयथार्थज्ञानं भवति । अर्थात् कुत्रचित् अविद्यमानस्य वस्तुनः ज्ञानं तत्र जायते चेत् तत् अयथार्थज्ञानम् । तथाहि कश्चित् पाषाणखण्डं दृष्ट्वा “इदं रजतम्” इति ज्ञानं प्राप्नोति । पाषाणखण्डे वस्तुतः रजतत्वं न वर्तते । अतः पाषाणे अविद्यमानस्य रजतत्वस्य ज्ञानं तत्र जायते इत्यतः तत् अयथार्थज्ञानं भवति । एतत् ज्ञानं भ्रमः इत्यपि उच्यते ।
यथार्थज्ञानम् अर्थात् प्रमा येन उत्पद्यते तत् प्रमाणम् इति उच्यते ।तन्नाम यथार्थज्ञानस्य साधनम् एव प्रमाणम् । तत्र यथार्थज्ञानं चतुर्विधं – प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबोधः चेति ।तेषां साधनानि अर्थात् प्रमाणानि अपि चत्वारि भवन्ति – प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दः चेति । एतैः प्रमाणैः ज्ञानानाम् उत्पत्तिः कथं जायते इति पश्यामः ।
प्रत्यक्षप्रमाणम् – इन्द्रियाणां द्वारा जायमानं ज्ञानम् एव प्रत्यक्षम् । तथाहि यदा वयं पुरतः वृक्षं पश्यामः तदा वृक्षेण सह चक्षुरिन्द्रियस्य सन्निकर्षः(संसर्गः) जायते । ततः “अयं वृक्षः” इति प्रत्यक्षज्ञानं जायते । अत्र चक्षुः करणम्, तच्च वृक्षेण सन्निकर्षं प्राप्य प्रत्यक्षज्ञानं जनयति । एवमेव श्रवणेन्द्रियस्य शब्देन सन्निकर्षः यदा भवति तदा शब्दस्य प्रत्यक्षं जायते । एवं रीत्या घ्राणेन्द्रियेण गन्धस्य, रसनेन्द्रियेण रसस्य, त्वगिन्द्रियेण स्पर्शस्य, मनसा ज्ञानादीनां च प्रत्यक्षज्ञानं जायते । एवं च प्रत्यक्षज्ञाने इन्द्रियाणि एव साधनानि इत्यतः इन्द्रियं भवति प्रत्यक्षप्रमाणम् ।
अनुमानप्रमाणम् – कदाचित् प्रत्यक्षेण अज्ञातस्य अपि विषयस्य ज्ञानं भवति इति सर्वेषाम् अनुभवसिद्धम् । यथा वयं कुत्रचित् धूमं पश्यामः, तत्र वह्निः न दृष्टः चेदपि अयं प्रदेशः वह्निमान् इति ज्ञानम् अस्माकं जायते । वह्निना सह अत्र इन्द्रियस्य सन्निकर्षः नास्ति इत्यतः इदं प्रत्यक्षज्ञानं भवितुं न अर्हति । तर्हि कथम् अत्र वह्निज्ञानम् उत्पन्नम्? इति चेत् - पूर्वम् अस्माभिः महानसादौ(पाकशालादौ) बहुवारं धोमः दृष्टः, तत्रैव वह्निरपि दृष्टः । वह्निधूमयोः मध्ये विद्यमानम् एतादृशं नियतं साहचर्यमेव व्याप्तिः इति उच्यते । तस्य नियतसाहचर्यस्य ज्ञानम् अर्थात् “यत्र यत्र धूमः तत्र तत्र वह्निः” इति ज्ञानमेव व्याप्तिज्ञानम् । एवं रीत्या यस्य व्याप्तिज्ञानं जातं सः कदाचित् अन्यत्र पर्वतप्रदेशे दूरात् धूमं यदा पस्यति तदा पूर्वं गृहीतां व्याप्तिं स्मरति । ततः “वह्निना व्याप्तः धूमः अस्मिन् पर्वते अस्ति” इति ज्ञानं तस्य जायते, यत् परामर्शः इत्युच्यते । तदुत्तरं “अयं पर्वतः वह्निमान्” इति ज्ञानं तस्य जायते , सा एव अनुमितिः । अत्र व्याप्तिज्ञानद्वारा अनुमितिः उत्पन्ना इत्यतः व्याप्तिज्ञानम् एव भवति अनुमानप्रमाणम् ।
अत्र केचन अंशाः अस्माभिः ज्ञातव्याः । वयं धूमद्वारा वह्नेः ज्ञानं प्राप्नुमः इत्यतः धूमः हेतुः इति, यस्य वह्नेः ज्ञानं प्राप्नुमः सः साध्यम् इति, यस्मित् पर्वते वह्नेः ज्ञानं प्राप्नुमः सः पक्षः इति, यस्मिन् महानसादौ वह्निधूमयोः व्याप्तिं वयं गृहीतवन्तः तद् महानसं दृष्टान्तः इति च उच्यते । व्याप्तिः तु “यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम्” इति रीत्या भवितुम् अर्हति, या अन्वयव्याप्तिः इत्युच्यते । तथैव विपरीतक्रमेण “यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः, यथा नदी ” इति रीत्या अपि भवितुम् अर्हति, या व्यतिरेकव्याप्तिः इत्युच्यते ।
अधुना अनुमितेः उत्पत्तौ अपेक्षितान् अंशान् सङ्कलयामः –
१. “यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम्” इति अन्वयव्याप्तिः, “यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः, यथा नदी” इति व्यतिरेकव्याप्तिः वा स्यात् ।
२. “हेतुः धूमः प्रकृतपक्षे पर्वते अस्ति” इति पक्षधर्मताज्ञानं स्यात् ।
३. प्रत्यक्षादिप्रमाणेन पूर्वमेव पर्वते साध्यस्य वह्नेः निश्चयः न स्यात् ।
४. पूर्वमेव “पर्वते वह्निः नास्ति” इति बाधनिश्चयः न स्यात् ।
५. “साध्यस्य अभावेन अर्थात् वह्न्यभावेन व्याप्तः कश्चन पदार्थः पर्वते अस्ति” इति सत्प्रतिपक्षनिश्चयः न भवेत् । ...............अनुवर्तते